हमारे शरीर में दस इंद्रियां, पांच प्राण, मन, बुद्धि, अहंकार= 18 भगवद्गीता में 700 श्लोक हैं। इनमें से 574 श्रीकृष्ण ने, 84 अर्जुन ने, 41 संजय ने और 1 धृतराष्ट्र ने कहा था। कुछ प्रतियों में 701 हैं। ... गीता उपनिषदों और योग शास्त्र का सार है, जिसे भगवान कृष्ण द्वारा अर्जुन को उपदेश दिया गया था, जो सर्वोच्च आत्मा के अवतार हैं। यह कहना कोई अतिश्योक्ति नहीं है कि इस अनंत ब्रह्मांड में श्रीकृष्ण के समान कोई गुरु और अर्जुन जैसा शिष्य नहीं है। उनकी बातचीत व्यास मुनिद्रों द्वारा लिखी गई है और हमारे सामने प्रस्तुत की गई है .. रामायण सर्ग, बाला कांड (77) सर्ग (2256) श्लोक, अयोध्या कांड (119) सर्ग (4415) श्लोक, अरण्य कांड (75) सर्ग (2732) श्लोक, किष्किंधा कांड (67) सर्ग (67) सर्ग (2620) श्लोक, सुंदर कांड (68) सर्ग (3006) श्लोक रामायण ईसा पूर्व का सबसे पुराना है। इतिहासकारों की राय है कि यह किसका है...

   
  Srimad Bhagavad Gita – श्रीमद्भगवद्गीता Valmiki Ramayanam in Sanskrit – वाल्मीकि रामायणम्

Balakanda Sarga 4 – बालकाण्ड चतुर्थः सर्गः


॥ अनुक्रमणिका ॥

प्राप्तराज्यस्य रामस्य वाल्मीकिर्भगवानृषिः ।
चकार चरितं कृत्स्नं विचित्रपदमात्मवान् ॥ १ ॥

चतुर्विंशत्सहस्राणि श्लोकानामुक्तवानृषिः ।
तथा सर्गशतान्पञ्च षट्काण्डानि तथोत्तरम् ॥ २ ॥

कृत्वापि तन्महाप्राज्ञः सभविष्यं सहोत्तरम् ।
चिन्तयामास को न्वेतत्प्रयुञ्जीयादिति प्रभुः ॥ ३ ॥

तस्य चिन्तयमानस्य महर्षेर्भावितात्मनः ।
अगृह्णीतां ततः पादौ मुनिवेषौ कुशीलवौ ॥ ४ ॥

कुशीलवौ तु धर्मज्ञौ राजपुत्रौ यशस्विनौ ।
भ्रातरौ स्वरसम्पन्नौ ददर्शाश्रमवासिनौ ॥ ५ ॥

स तु मेधाविनौ दृष्ट्वा वेदेषु परिनिष्ठितौ ।
वेदोपबृंहणार्थाय तावग्राहयत प्रभुः ॥ ६ ॥

काव्यं रामायणं कृत्स्नं सीतायाश्चरितं महत् ।
पौलस्त्यवधमित्येव चकार चरितव्रतः ॥ ७ ॥

पाठ्ये गेये च मधुरं प्रमाणैस्त्रिभिरन्वितम् ।
जातिभिः सप्तभिर्बद्धं तन्त्रीलयसमन्वितम् ॥ ८ ॥

[* पाठभेदः –
रसैः शृङ्गार करुण हास्य रौद्र भयानकैः ।
विरादिभी रसैर्युक्तं काव्यमेतदगायताम् ॥
*]

हास्यशृङ्गारकारुण्यरौद्रवीरभयानकैः ।
बीभत्साद्भुतसम्युक्तं काव्यमेतदगायताम् ॥ ९ ॥

तौ तु गान्धर्वतत्त्वज्ञौ मूर्छनास्थानकोविदौ ।
भ्रातरौ स्वरसम्पन्नौ गन्धर्वाविव रूपिणौ ॥ १० ॥

रूपलक्षणसम्पन्नौ मधुरस्वरभाषिणौ ।
बिम्बादिवोद्धृतौ बिम्बौ रामदेहात्तथापरौ ॥ ११ ॥

तौ राजपुत्रौ कार्त्स्न्येन धर्माख्यानमनुत्तमम् ।
वाचो विधेयं तत्सर्वं कृत्वा काव्यमनिन्दितौ ॥ १२ ॥

ऋषीणां च द्विजातीनां साधूनां च समागमे ।
यथोपदेशं तत्त्वज्ञौ जगतुस्तौ समाहितौ ॥ १३ ॥

महात्मानौ महाभागौ सर्वलक्ष्णलक्षितौ ।
तौ कदाचित्समेतानामृषीणां भावितात्मनाम् ॥ १४ ॥

आसीनानां समीपस्थाविदं काव्यमगायताम् ।
तच्छ्रुत्वा मुनयः सर्वे बाष्पपर्याकुलेक्षणाः ॥ १५ ॥

साधु साध्विति चाप्यूचुः परं विस्मयमागताः ।
ते प्रीतमनसः सर्वे मुनयो धर्मवत्सलाः ॥ १६ ॥

प्रशशंसुः प्रशस्तव्यौ गायन्तौ तौ कुशीलवौ ।
अहो गीतस्य माधुर्यं श्लोकानां च विशेषतः ॥ १७ ॥

चिरनिर्वृत्तमप्येतत् प्रत्यक्षमिव दर्शितम् ।
प्रविश्य तावुभौ सुष्टु तथा भावमगायताम् ॥ १८ ॥

सहितौ मधुरं रक्तं सम्पन्नं स्वरसम्पदा ।
एवं प्रशस्यमानौ तौस्तपः श्लाघ्यैर्महात्मभिः ॥ १९ ॥

संरक्ततरमत्यर्थं मधुरं तावगायताम् ।
प्रीतः कश्चिन्मुनिस्ताभ्यां सस्मितः कलशं ददौ ॥ २० ॥ [संस्थितः]

प्रसन्नो वल्कलं कश्चिद्ददौ ताभ्यां महातपाः । [महायशाः]
अन्यः कृष्णाजिनं प्रादान्मौञ्जीमन्यो महामुनिः ॥ २१ ॥

कश्चित्कमण्डलुं प्रादाद्यज्ञसूत्रमथापरः ।
ब्रुसीमन्यस्तदा प्रादत्कौपीनमपरो मुनिः ॥ २२ ॥

ताभ्यां ददौ तदा हृष्टः कुठारमपरो मुनिः ।
काषायमपरो वस्त्रं चीरमन्यो ददौ मुनिः ॥ २३ ॥

जटाबन्धनमन्यस्तु काष्ठरज्जुं मुदान्वितः ।
यज्ञभाण्डमृषिः कश्चित् काष्ठभारं तथापरः ॥ २४ ॥

औदुम्बरीं ब्रुसीमन्यो जपमालामथापरः ।
आयुष्यमपरे प्राहुर्मुदा तत्र महर्षयः ॥ २५ ॥

ददुश्चैव वरान्सर्वे मुनयः सत्यवादिनः ।
आश्चर्यमिदमाख्यानं मुनिना सम्प्रकीर्तितम् ॥ २६ ॥

परं कवीनामाधारं समाप्तं च यथाक्रमम् ।
अभिगीतमिदं गीतं सर्वगीतेषु कोविदौ ॥ २७ ॥

आयुष्यं पुष्टिजनकं सर्वश्रुतिमनोहरम् ।
प्रशस्यमानौ सर्वत्र कदाचित्तत्र गायनौ ॥ २८ ॥

रथ्यासु राजमार्गेषु ददर्श भरताग्रजः ।
स्ववेश्म चानीय ततो भ्रातरौ च कुशीलवौ ॥ २९ ॥

पूजयामास पुजार्हौ रामः शत्रुनिबर्हणः ।
आसीनः काञ्चने दिव्ये स च सिंहासने प्रभुः ॥ ३० ॥

उपोपविष्टः सचिवैर्भ्रातृभिश्च परन्तप ।
दृष्ट्वा तु रूपसम्पन्नौ तावुभौ नियतस्तदा ॥ ३१ ॥

उवाच लक्ष्मणं रामः शत्रुघ्नं भरतं तथा ।
श्रूयतामिदमाख्यानमनयोर्देववर्चसोः ॥ ३२ ॥

विचित्रार्थपदं सम्यग्गायनौ समचोदयत् ।
तौ चापि मधुरं व्यक्तं स्वञ्चितायतनिःस्वनम् ॥ ३३ ॥

तन्त्रीलयवदत्यर्थं विश्रुतार्थमगायताम् ।
ह्लादयत्सर्वगात्राणि मनांसि हृदयानि च ।
श्रोत्राश्रयसुखं गेयं तद्बभौ जनसंसदि ॥ ३४ ॥

इमौ मुनी पार्थिवलक्षणान्वितौ
कुशीलवौ चैव महातपस्विनौ ।
ममापि तद्भूतिकरं प्रचक्षते
महानुभावं चरितं निबोधत ॥ ३५ ॥

ततस्तु तौ रामवचः प्रचोदिता-
-वगायतां मार्गविधानसम्पदा ।
स चापि रामः परिषद्गतः शनै-
-र्बुभूषया सक्तमना बभूव ह ॥ ३६ ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्थः सर्गः ॥ ४ ॥


www.sanatanadharm.com